न वेदान्ते गाढा
न च परिचितं शब्दशास्त्रं
न वा तर्के वेदे
न च सरसता काव्यनिवहे
वयं श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी
हयग्रीवाम्बोडेकरिगडुबु दध्यन्नरसिका:
तथापि गुण्डप्पवर्य: आत्मानं सर्वज्ञ: इति न कदापि भावयति स्म | एकदा गुण्डप्पवर्य: प्रसिद्ध: संस्कृतविद्वान् रङ्गनाथशर्मा महोदयेन सह वार्तालापं करोति स्म |
रङ्गनाथ महोदय: केषाञ्चन संस्कृतविदुषां नामानि उक्त्वा भवान् तान् जानाति किल इति अवदत् | तदा गुण्डप्पवर्य: संस्कृतविषये स्वज्ञानं न्यूनं इति वक्तुं विनोदपूर्वकं एनं श्लोकं अवदत् |
अहं वेदान्तम् व्याकरणम् च न जाने | तर्के वेदे नास्ति वैदुष्यं | वाङ्ग्मये नास्ति सरसता | गुरुगृहस्य सुग्रासभोजनवैशिष्ट्यात् आजीवनं संस्कृताध्ययनं कृत्वापि श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी हयग्रीवाम्बोडे करिगडुबु दध्यन्न रसिक: एव अतिष्ठं इति |
एष: श्लोक: शिथिलशिखरिणि वृत्ते रचित: | गुण्डप्प: महोदय: स्व अज्ञानमपि कीदृशेन सुललितेन श्लोकेन प्रदर्शयति इति