Friday, 21 November 2014

यत्र नार्यस्तु राजन्ते तत्र रमन्ते देवता:

    यत्र नार्यस्तु  राजन्ते  तत्र रमन्ते देवता:



राजनीति: - कियत् अर्थपूर्ण: शब्द: प्रजापालने राज्ञ: कर्तव्यानि स्मारयति अयं शब्द: प्राचीने भारते राजा परमेश्वर: इव पूज्यते स्म भारतस्य अनेका: नृपा: उत्तमा: राजनीतिज्ञा: इव अद्यापि स्मर्यन्ते  परन्तु अस्मिन् प्रजाप्रभुत्वस्य काले कुत्र नृपा: ? नृपस्य स्थाने विराजमान: सर्वकार: एव सर्वेश्वर: किल ! सर्वकारस्य विधातृ राजनीति: व्याकरणदृष्ट्या  शब्दोऽयं स्त्रीलिङ्ग: किन्तु व्यवहारदृष्ट्या राजनीत्यां पुरुषाणाम् एव प्राबल्यम्

प्रायश: अनादिकालत: भारतीयसामाजिकी स्थिति: पुरुषप्रधाना अस्माकं पुराणेषु अपि नारी श्रृङ्गारसाधनमिव मन्यते स्म विश्वामित्र: इत्यादि ऋषीणां तपोभङ्गाय, देवेन्द्रं स्म्मोहयितुं मेनका, तिलोत्तमा, ऊर्वशी इत्यादय: ललना: आवश्यका: तथापि राजकीय स्न्धानार्थं कृष्ण: , विदुर: , विभीषण: इत्यादय: प्राज्ञा:  आवश्यका:  तस्मिन् काले ललनाया: शरीरमेव भोक्तुं योग्यम् तासां बुद्धिपटुत्वं नगण्यम् इति भावना स्वीकृतासीत् इतिहासे अपिराजाधिराज’ , ‘राजमार्ताण्डइत्यादि पुरुषसूचका: विशेषणा: एव श्रूयन्ते अपि मन्त्रालोचनसभायां नारीणाम् उपस्थिति: कुत्रापि उल्लेखिता आधुनिके इतिहासे पत्यु: मरणानन्तरं  सिंहासनारूढा: झान्सी लक्ष्मीबाई, कित्तूरु चेन्नम्मा इत्यादि काश्चन वीराङ्गना: अस्मिन् क्षेत्रे ध्रुवनक्षत्रमिव शोभन्ते

यदा आङ्ग्लशिक्षणं भारते प्रसरितं तदा विद्यावत्य: महिला: स्वाधिकारचिन्तनाम् आरब्धवत्य: भारतस्य स्वातन्त्रसंग्रामे काश्चन कुलीना: महिला: भागं गृहीतवन्त:, राजकीयपक्षेषु उन्नतानि स्थानानि अपि प्राप्तवन्त: अत: सामान्यमहिला: अपि राजनीत्याम् आसक्ता: अभवन्
स्वातन्त्रानन्तरे भारतसंविधानेन  महिलानां कृते सर्वेषु क्षेत्रेषु अवसरं कल्पितम् तथापि देशस्य शासनसभासु महिलानां संख्या निराशामयी अस्ति अधुना अस्माकं लोकसभायां महिलानां सङ्ख्या केवलं १०% विश्वस्तरे सर्वकारे - महिलाप्रातिनिध्यविषये भारतस्य स्थानं १०८ तम: भवति यतोहि शासनसभायां ३३% स्थानानि महिलाभ्य: दातव्यानि इति शासनं वारं वारं चर्चितं अभवत् विना साफल्येन !

भारते राजनीत्यां यावत् नार्य: सन्ति ता: अधिकश: चलच्चित्रनायिका: अथवा पिता वा पत्यु: नामबलेन आगता: एतादृशा: महिला: निरायासेन राजकीयपक्षा: निर्वाचनाय चिन्वन्ति ता: विजयी भविष्यन्ति किन्तु एका वाक्चतुरा , बुद्धिमती, विद्यावती  सामान्या महिला यदि प्रयत्नं करोति चेत् कोऽपि राजकीयपक्ष: समर्थनं करोति कारणानि अनेकानि राजनीत्यां प्रवेशं कर्तुं निर्वाचनप्रक्रियां भागग्रहणं अनिवार्यम् सामान्यत: पुरुषाकाङ्क्षिणां सङ्ख्या महिलाभ्य: अधिका राजकीयपक्षाणां कार्यकर्तार: पुरुषाणां कृते कार्यं कर्तुम् उत्सुका: महिलानां कृते प्रजाप्रभुत्वं तु सङ्ख्याक्रीडा खलु ! सहजतया महिला अभ्यर्थी गण्यते यदि कापि महिला अत्र पारं गच्छति चेदपि तस्या: कष्टशृङ्खला आरम्भा भवति प्रचारकार्ये अहर्निशं ग्रामं नगरम् अटित्वा जनानुरागं कर्षितव्यम् अत्र गृहे पति: , ज्येष्ठानां प्रोत्साह: , सहकार: , उदारचिन्तनम् अनिवार्यम् गृहकार्याणि , बालपोषणम्, पाचनम् इत्यादि कार्याणि महिलानां कृते इति अलिखित: नियम: अस्माकं समाजे अस्तिरेव एतत्सर्वं तर्तुं धनबलमपि आवश्यकम् शासनसभां प्रवेशं कृत्वापि सचिवपदव्यां पुरुषा: एव विराजन्ते रक्षणा, वित्तम्, विदेशाङ्ग: इत्यादि मुख्या: विभागा: पुरुषाय संस्कृति: , वार्ता, कुटुंबकल्याणम् इत्यादि अमुख्या: महिलायै !


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता: …इति वदति देदवाणी अद्यतन स्थितौ नार्य: पूजां इच्छन्ति ताभ्य: सम्मानं, गौरवं, समानावसरा: रोचन्ते महिलानां कार्यशक्ति: , बुद्धिपाटवं, असीमधैर्यं तु मुहुर्मुहु निरूपितं श्लाघितं भारतस्य जनसङ्ख्यायां ४९% महिला: सन्ति महिलानां समस्या: अतिक्लिष्टा: तेषां निवारणार्थं महिलास्नेही नियमा: अत्यावश्यका: अत: देशस्य शासनसभासु अधिकाधिका: महिलाशासका: उपस्थितव्या: अस्माकं प्रधानमन्त्री नरेन्द्रमोदीवर्य: अस्मिन् विषये अभिनन्दनार्ह: तस्य मन्त्रिगणे  सप्त महिलाभ्य: स्थानं दत्तवान् : अपि विदेशदेशाङ्ग:, मानवसंपन्मूलविकास:, आहारसंस्करणम् इत्यादि मुख्येषु विभागेषु महिलामन्त्रिण: एव कार्यं कुर्वन्ति आगामि दिनेषु तेषां संख्या इतोऽपि अधिका भवेत् मतदातार: अपि अभ्यर्थीनां धनबलं बाहुबलं वा तिरस्कृत्य बुद्धिमत्तां, चतुरतां आधृत्य स्वाधिकारं उपयुज्येत् इति अस्माकम् आशय:

chatu shloka - 4 चाटु श्लोक: -4

  न वेदान्ते गाढा न च परिचितं शब्दशास्त्रं न वा तर्के वेदे न च   सरसता काव्यनिवहे वयं श्रीमद्बेळेहुळि पळदय कोसंब्री ...