यत्र
नार्यस्तु राजन्ते तत्र
रमन्ते देवता:
राजनीति: - कियत् अर्थपूर्ण: शब्द: । प्रजापालने
राज्ञ: कर्तव्यानि
स्मारयति अयं शब्द: ।
प्राचीने भारते राजा परमेश्वर: इव
पूज्यते स्म । भारतस्य
अनेका: नृपा: उत्तमा: राजनीतिज्ञा: इव अद्यापि स्मर्यन्ते
। परन्तु अस्मिन् प्रजाप्रभुत्वस्य काले कुत्र नृपा: ? नृपस्य
स्थाने विराजमान: सर्वकार: एव सर्वेश्वर: किल ! सर्वकारस्य विधातृ राजनीति: ।
व्याकरणदृष्ट्या
शब्दोऽयं
स्त्रीलिङ्ग: । किन्तु
व्यवहारदृष्ट्या राजनीत्यां पुरुषाणाम् एव प्राबल्यम् ।
प्रायश: अनादिकालत: भारतीयसामाजिकी
स्थिति: पुरुषप्रधाना
। अस्माकं
पुराणेषु अपि नारी श्रृङ्गारसाधनमिव मन्यते स्म । विश्वामित्र: इत्यादि ऋषीणां तपोभङ्गाय, देवेन्द्रं
स्म्मोहयितुं मेनका, तिलोत्तमा, ऊर्वशी इत्यादय: ललना: आवश्यका:।
तथापि राजकीय स्न्धानार्थं कृष्ण: , विदुर: , विभीषण: इत्यादय: प्राज्ञा: आवश्यका: ।
तस्मिन्
काले ललनाया: शरीरमेव
भोक्तुं योग्यम् तासां बुद्धिपटुत्वं नगण्यम् इति भावना स्वीकृतासीत् । इतिहासे
अपि ‘राजाधिराज’ , ‘राजमार्ताण्ड’ इत्यादि पुरुषसूचका: विशेषणा: एव
श्रूयन्ते । अपि
च मन्त्रालोचनसभायां
नारीणाम् उपस्थिति: कुत्रापि
न उल्लेखिता
। आधुनिके
इतिहासे पत्यु: मरणानन्तरं
सिंहासनारूढा: झान्सी लक्ष्मीबाई, कित्तूरु चेन्नम्मा इत्यादि काश्चन वीराङ्गना: अस्मिन्
क्षेत्रे ध्रुवनक्षत्रमिव शोभन्ते ।
यदा आङ्ग्लशिक्षणं भारते प्रसरितं तदा विद्यावत्य: महिला: स्वाधिकारचिन्तनाम्
आरब्धवत्य: ।
भारतस्य स्वातन्त्रसंग्रामे काश्चन कुलीना: महिला: भागं गृहीतवन्त:, राजकीयपक्षेषु
उन्नतानि स्थानानि अपि प्राप्तवन्त: । अत: सामान्यमहिला: अपि राजनीत्याम् आसक्ता: अभवन्
।
स्वातन्त्रानन्तरे
भारतसंविधानेन
महिलानां
कृते सर्वेषु क्षेत्रेषु अवसरं कल्पितम् । तथापि
देशस्य शासनसभासु महिलानां संख्या निराशामयी अस्ति । अधुना
अस्माकं लोकसभायां महिलानां सङ्ख्या केवलं १०% ।
विश्वस्तरे सर्वकारे - महिलाप्रातिनिध्यविषये भारतस्य स्थानं १०८ तम: भवति
। यतोहि
शासनसभायां ३३% स्थानानि
महिलाभ्य: दातव्यानि
इति शासनं वारं वारं चर्चितं अभवत् विना साफल्येन !
भारते राजनीत्यां यावत् नार्य: सन्ति
ता: अधिकश: चलच्चित्रनायिका: अथवा पिता वा पत्यु: नामबलेन
आगता: ।
एतादृशा: महिला: निरायासेन राजकीयपक्षा: निर्वाचनाय चिन्वन्ति । ता: विजयी भविष्यन्ति । किन्तु
एका वाक्चतुरा , बुद्धिमती, विद्यावती सामान्या महिला यदि प्रयत्नं करोति चेत् कोऽपि राजकीयपक्ष: समर्थनं न करोति
। कारणानि
अनेकानि । राजनीत्यां
प्रवेशं कर्तुं निर्वाचनप्रक्रियां भागग्रहणं अनिवार्यम् । सामान्यत: पुरुषाकाङ्क्षिणां सङ्ख्या महिलाभ्य: अधिका
। राजकीयपक्षाणां
कार्यकर्तार: पुरुषाणां कृते कार्यं कर्तुम् उत्सुका: न
महिलानां कृते । प्रजाप्रभुत्वं
तु सङ्ख्याक्रीडा खलु ! सहजतया
महिला अभ्यर्थी न गण्यते
। यदि
कापि महिला अत्र पारं गच्छति चेदपि तस्या: कष्टशृङ्खला
आरम्भा भवति । प्रचारकार्ये
अहर्निशं ग्रामं नगरम् अटित्वा जनानुरागं कर्षितव्यम् । अत्र
गृहे पति: , ज्येष्ठानां
च प्रोत्साह: , सहकार: , उदारचिन्तनम्
च अनिवार्यम्
। गृहकार्याणि , बालपोषणम्, पाचनम्
इत्यादि कार्याणि महिलानां कृते इति अलिखित: नियम: अस्माकं समाजे अस्तिरेव । एतत्सर्वं
तर्तुं धनबलमपि आवश्यकम् । शासनसभां
प्रवेशं कृत्वापि सचिवपदव्यां पुरुषा: एव
विराजन्ते । रक्षणा, वित्तम्, विदेशाङ्ग: इत्यादि मुख्या: विभागा: पुरुषाय । संस्कृति: , वार्ता, कुटुंबकल्याणम्
इत्यादि अमुख्या: महिलायै !
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता: …इति
वदति देदवाणी । अद्यतन
स्थितौ नार्य: पूजां
न इच्छन्ति
। ताभ्य: सम्मानं, गौरवं, समानावसरा: च
रोचन्ते । महिलानां
कार्यशक्ति: , बुद्धिपाटवं, असीमधैर्यं तु मुहुर्मुहु निरूपितं श्लाघितं च ।
भारतस्य जनसङ्ख्यायां ४९% महिला: सन्ति । महिलानां
समस्या: अतिक्लिष्टा: । तेषां
निवारणार्थं महिलास्नेही नियमा: अत्यावश्यका:। अत: देशस्य शासनसभासु अधिकाधिका: महिलाशासका: उपस्थितव्या: । अस्माकं
प्रधानमन्त्री नरेन्द्रमोदीवर्य: अस्मिन् विषये अभिनन्दनार्ह: । तस्य
मन्त्रिगणे सप्त
महिलाभ्य: स्थानं
दत्तवान् स: ।
अपि च विदेशदेशाङ्ग:, मानवसंपन्मूलविकास:, आहारसंस्करणम् इत्यादि मुख्येषु विभागेषु महिलामन्त्रिण: एव कार्यं कुर्वन्ति । आगामि
दिनेषु तेषां संख्या इतोऽपि अधिका भवेत् । मतदातार: अपि अभ्यर्थीनां धनबलं बाहुबलं वा तिरस्कृत्य बुद्धिमत्तां, चतुरतां आधृत्य स्वाधिकारं उपयुज्येत् इति अस्माकम् आशय: ।
No comments:
Post a Comment