Tuesday, 23 November 2021

chatu shloka - 4 चाटु श्लोक: -4

  वेदान्ते गाढा

परिचितं शब्दशास्त्रं

वा तर्के वेदे

  सरसता काव्यनिवहे

वयं श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी

हयग्रीवाम्बोडेकरिगडुबु दध्यन्नरसिका

कवि: दार्शनिक: श्री डी वी गुण्डप्प: महोदय: कन्नडभाषाया: मेरुपुरुष: | तस्य मन्कुतिम्मन कग्ग इति उद्ग्रन्थविषये सर्वे जानन्ति एव इति मन्ये | जीवनदर्शनं सरलवाक्येषु निरूपयन् अयं ग्रन्थ: गुण्डोपनिषत् इत्यपि कथ्यते |

तथापि गुण्डप्पवर्य: आत्मानं सर्वज्ञ: इति कदापि भावयति स्म | एकदा गुण्डप्पवर्यप्रसिद्ध: संस्कृतविद्वान् रङ्गनाथशर्मा महोदयेन सह वार्तालापं करोति स्म |

रङ्गनाथ महोदय: केषाञ्चन संस्कृतविदुषां  नामानि उक्त्वा भवान् तान् जानाति किल इति अवदत् | तदा गुण्डप्पवर्य: संस्कृतविषये स्वज्ञानं न्यूनं इति वक्तुं विनोदपूर्वकं एनं श्लोकं अवदत् |

अहं वेदान्तम्  व्याकरणम् जाने | तर्के वेदे नास्ति वैदुष्यं | वाङ्ग्मये नास्ति सरसता | गुरुगृहस्य सुग्रासभोजनवैशिष्ट्यात् आजीवनं संस्कृताध्ययनं कृत्वापि श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी हयग्रीवाम्बोडे करिगडुबु दध्यन्न रसिक: एव अतिष्ठं इति |

एष: श्लोक: शिथिलशिखरिणि वृत्ते रचित: | गुण्डप्प: महोदय: स्व अज्ञानमपि कीदृशेन सुललितेन श्लोकेन प्रदर्शयति इति

विचार: अद्भुत: एव इति मम अभिप्राय: | तस्मै नमोनम:|

No comments:

Post a Comment

chatu shloka - 4 चाटु श्लोक: -4

  न वेदान्ते गाढा न च परिचितं शब्दशास्त्रं न वा तर्के वेदे न च   सरसता काव्यनिवहे वयं श्रीमद्बेळेहुळि पळदय कोसंब्री ...