Friday, 4 December 2020

Online shalam namamyaham - आन्लैन् शालां नमाम्यहम्

 


निस्तन्तु जाल वेदौ तु

ज्ञानयज्ञं निरन्तरं

निर्वहन्तीम् महाभागां

आन्लैन् शालां नमाम्यहम्

विनास्पर्शानुभूतिं च

विनारवालयं परं

छात्रशिक्षकयुक्तां तां

आन्लैन् शालां नमाम्यहम्

क्रीडानृत्यं च संगीतं

प्रयोगं वाचनं पुन:

संगणके निबद्धां तां

आन्लैन् शालां नमाम्यहम्

शिक्षको यत्र कुत्रापि

शिष्या निजगृहेषु च

योजितारनया क्षिप्रं

आन्लैन् शालां नमाम्यहम्

वाग्वादंच परामर्शं

कलापं पाठनं तथा

योजयन्तीम् यथास्थानं

आन्लैन् शालां नमाम्यहम्

श्रूयते किल दृश्यन्ते

लिख्यते इति मन्त्रवत्

यत्रोक्तं पौनपौन्येन

आन्लैन् शालां नमाम्यहम्

Mahatma I bow to you - नमस्तस्मै महात्मने

 

ग्रामेऽस्ति भारतस्यात्मा

बहुत्वं च मनुष्यता 

सर्वथा घोषितं येन

नमस्तस्मै महात्मने ||


मातृभाषा समायुक्ता

वृत्तिज्ञान क्रियान्विता |

शिक्षोक्ता कृषिसंभूता

नमस्तस्मै महात्मने ||


 सेवाशान्ति र्श्रमस्थैर्यं    

त्यागसत्यतपोरत:  |   

तारतम्य निहन्ता स

नमस्तस्मै महात्मने ||

 

गान्धी मोहनदासेति

संजात: पोरबन्दरे |

न्यायवादी स्थितप्रज्ञ: 

नमस्तस्मै महात्मने ||


एकता वस्त्रसारल्यं

स्वाधिकार: सहिष्णुता

मार्गेषु च गतं येन

नमस्तस्मै महात्मने ||

 

chatu shloka - 4 चाटु श्लोक: -4

  न वेदान्ते गाढा न च परिचितं शब्दशास्त्रं न वा तर्के वेदे न च   सरसता काव्यनिवहे वयं श्रीमद्बेळेहुळि पळदय कोसंब्री ...