चाटु इत्युक्ते उक्तिसौन्दर्ययुतं लेखनं | कवे: जीवने दृष्टा: श्रुता: घटिता:
वा घटना: अथवा लोकव्यवहारं प्रति कवे: प्रतिकृयारूपेण चाटुश्लोका: रचिता: इति
दृश्यते | एते छन्दोबद्धश्लोका: वर्तन्ते एव: | तथापि तेषां रचनासन्दर्भस्य वृत्तान्तं विना तेषां
काव्यरसग्रहणं कर्तुं असाध्यं भवति | अहमद्य एतादृशानां चतुर्णां श्लोकानां वाचनं
विवरणं च कर्तुं प्रयासं करोमि | प्रथमं मङ्गलाचरनयुतं सुन्दरं श्लोकमयं पश्याम: |
कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः ।
द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - 'कः भवान् ?’
शिवः अवदत् - 'अहं शूली ।' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - 'वैद्यसमीपं गच्छतु ।’
शिवः अवदत् - 'अहं नीलकण्ठः ।' मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - 'भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति ।
शिवः अवदत् - 'अहं पशुपतिः ।' पार्वती अवदत् - 'पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?' इति ।
'अहं स्थाणुः अस्मि' -
शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - 'स्थाणुः न वदति' इति ।
'अहं शिवायाः पतिः' इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - 'भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति ।
एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।
No comments:
Post a Comment