Tuesday, 23 November 2021

Chatu shloka - 1 चाटुश्लोक: - 1

 


चाटु इत्युक्ते उक्तिसौन्दर्ययुतं लेखनं | कवे: जीवने दृष्टा: श्रुता: घटिता: वा घटना: अथवा लोकव्यवहारं प्रति कवे: प्रतिकृयारूपेण चाटुश्लोका: रचिता: इति दृश्यते | एते छन्दोबद्धश्लोका: वर्तन्ते एव: | तथापि  तेषां रचनासन्दर्भस्य वृत्तान्तं विना तेषां काव्यरसग्रहणं कर्तुं असाध्यं भवति | अहमद्य एतादृशानां चतुर्णां श्लोकानां वाचनं विवरणं च कर्तुं प्रयासं करोमि | प्रथमं मङ्गलाचरनयुतं सुन्दरं श्लोकमयं पश्याम: |

कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः

द्वारं पिहितम् आसीत् शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - 'कः भवान् ?’

 शिवः अवदत् - 'अहं शूली ' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - 'वैद्यसमीपं गच्छतु ।’

शिवः अवदत् - 'अहं नीलकण्ठः ' मयूरस्यापि कण्ठः नीलः अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - 'भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति

 शिवः अवदत् - 'अहं पशुपतिः ' पार्वती अवदत् - 'पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?' इति

 'अहं स्थाणुः अस्मि' - शिवः अवदत् स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः अतः पार्वती वदति - 'स्थाणुः वदति' इति

'अहं शिवायाः पतिः' इति वदति शिवः शिवा नाम शृगाली अपि अतः पार्वती वदति - 'भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति

 एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु

No comments:

Post a Comment

chatu shloka - 4 चाटु श्लोक: -4

  न वेदान्ते गाढा न च परिचितं शब्दशास्त्रं न वा तर्के वेदे न च   सरसता काव्यनिवहे वयं श्रीमद्बेळेहुळि पळदय कोसंब्री ...