एकदा एक: विप्र: शकटेन यात्रार्थं प्रस्थित: | मध्याह्ने भोजनसमये एकं ग्रामं प्राप्त: किन्तु तत्र न कोऽपितस्य बन्धु: वयस्य: वा |
अतीव बुभुक्षित: क्लान्त: च स: चतुरविप्र: गृहमेकं अतिथिव्याजेन प्राविशत् |
तस्य गृहस्य पुरत: बदरीवृक्ष: आसीत् | गृहस्वामी सात्त्विकब्राह्मण: अपरिचिताथिते: आगमनात् संभ्रान्त: अभवत् |
परन्तु एष: विप्र: चिरपरिचित: इव व्यवहरन् प्रीत्यादरेण भाषते स्म | तदा स: गृहस्थोऽपि शिष्टाचारान् प्रदर्शयन् भोजनादिकं
परिवेशयत् | भोजनानन्तरं विप्र: गन्तुं सन्नद्ध: कृतज्ञतावचनानि अवदत् |
तावत् पर्यन्तं विचार्य अपि एष: क: इति न जानन् गृहस्थ: अधुना तस्य परिचयं अपृच्छत् |
सहसा शकटारूढ: विप्र: हसन् इमम् श्लोकं अगायत् |
हे मित्र ! मम शकटस्य चक्रं बदरीवृक्षेण निर्मितं | भवत: गृहस्य पुरत: अपि एक: बदरीतरु:वर्तते |
अत: यूयं वयं च बादरायणसंबन्धिन: खलु ?
इति वदन् स: विप्र: वेगेन दूरं गत: | एष: सज्जन: गृहस्वामी किंकर्तव्यमूढ: इव अतिष्ठत् |
अधुनापि अतीवदूरबन्धुत्वं क्वचित् परिचय: च बादरायणसंबन्ध: इति नाम्ना व्यवह्रियते |
केचन बादरायणसंबन्धिन: गृहभञ्जका: धनमानहारिण: च भवितुं शक्नुवन्ति |
अत: तादृशानां जनानां विषये वयं यूयं च जागरुका: भवेम |
No comments:
Post a Comment