उत्तुङ्गभुज: इति नाम राजा आसीत् | स: स्वपरिवारं राज्यकार्याणि च विस्मृत्य वेश्यासक्त: भ्रष्ट: जात: |
तस्य राज्ञी पुत्र: नन्द: च दारिद्र्यवशात् जीवननिर्वाहे त्रस्ता: उटजे एकया सेविकया सह निवसन्तौ आस्ताम् |
एकदा एक: वणिक् स्ववस्तुविक्रयणाय प्रासादं आगत: | राजपरिवारस्य दुर्दशां विज्ञाय उटजं आगत्य राजोचितवस्तूनि दत्तवान् | किन्तु धनाभावात् तानि क्रेतुं असमर्था राज्ञी निराकृतवती |
यद्यपि दयालु: वणिक् नि:श्शुल्कं प्रदातुं सिद्ध: तथापि सा स्वाभिमानिनी स्वीकर्तुम् सर्वथा न अङ्गीकृतवती |
तदा एतत् सर्वं पश्यन्ती सेविका अनुनयेन एनं श्लोकं उक्तवती |
हे देवि ! क्षणमेकं कल्पनां करोतु | आगामिदिनेषु उत्तुङ्गभुज: प्राप्तमृत्यु: भविष्यति | देशकालस्थिति: परिवर्तिता भविष्यति | सा गणिका एष: वणिक् वा पञ्चत्वं प्राप्स्यत: | अस्माकं प्रिय: नन्दो राजा भविष्यति | कथञ्चिदपि ऋणभारेण भवती पीडिता न भविष्यति | वस्तूनि स्वीकरोतु इति |
पत्यु: वणिक् महोदयस्य च मरणं न भवेत् इति प्रार्थयन्ती राज्ञी वस्तूनि स्वीकृतवती | कालक्रमेण प्रजाकलहकारणात् उत्तुङ्गभुज: स्वदोषं मत्वा कर्तव्यपर: जात: राज्ञीपदं च तया प्राप्तम् | अनन्तरं नन्द: एव राजा अभवत् | आपत्काले स्थैर्यशिक्षां दत्तौ दासी वणिक् महोदय: च नन्देन सम्मानितौ |
एवं सुखकष्टं तु वीचिवत् क्षणिकं भवति | जीवने कदापि निराशापन्ना: न भवेम | सर्वं शुभं जायेत इति आशाभावना मनसि वचसि च सदा भवेत् इति आशयेन नन्दो राजा भविष्यति इति वाक्यं आशावादिभि: सर्वदा उच्च्यते |
No comments:
Post a Comment